हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 35 – युद्धकाण्ड पञ्चत्रिंशः सर्गः (३५)
॥ माल्यवदुपदेशः ॥
तेन शङ्खविमिश्रेण भेरीशब्देन राघवः ।
उपयाति महाबाहू रामः परपुरञ्जयः ॥ १ ॥
तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ २ ॥
अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः ।
सभां सन्नादयन्सर्वामित्युवाच महाबलः ॥ ३ ॥
जगत्सन्तापनः क्रूरो गर्हयन्राक्षसेश्वरः ।
तरणं सागरस्यापि विक्रमं बलसञ्चयम् ॥ ४ ॥
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ।
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ॥ ५ ॥
तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ।
ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः ॥ ६ ॥
रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत् ।
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ॥ ७ ॥
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ।
सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह ॥ ८ ॥
स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ।
हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च ॥ ९ ॥
न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ।
तन्मह्यं रोचते सन्धिः सह रामेण रावण ॥ १० ॥
यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ॥ ११ ॥
विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् ।
असृजद्भगवान्पक्षौ द्वावेव हि पितामहः ॥ १२ ॥
सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ।
धर्मो हि श्रूयते पक्षो ह्यमराणां महात्मनाम् ॥ १३ ॥
अधर्मो रक्षसां पक्षो ह्यसुराणां च रावण ।
धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् ॥ १४ ॥
अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ।
तत्त्वया चरता लोकान्धर्मो विनिहतो महान् ॥ १५ ॥
अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परेः ।
स प्रमादाद्विवृद्धस्तेऽधर्मोऽभिग्रसते हि नः ॥ १६ ॥
विवर्धयति पक्षं च सुराणां सुरभावनः ।
विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया ॥ १७ ॥
ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ।
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ॥ १८ ॥
तपसा भावितात्मनो धर्मस्यानुग्रहे रताः ।
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः ॥ १९ ॥
जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ।
अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् ॥ २० ॥
दिशोऽपि विद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे ।
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः ॥ २१ ॥
आवृत्य रक्षसां तेजो धूमो व्याप्य दिशो दश । [आदत्ते]
तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः ॥ २२ ॥
चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ।
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ॥ २३ ॥
मानुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ २४ ॥
उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा ।
विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥ २५ ॥
खराभिस्तनिता घोरा मेघाः प्रतिभयङ्कराः ।
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥ २६ ॥
रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।
ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथा पुरा ॥ २७ ॥
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् ।
प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ॥ २८ ॥
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ २९ ॥
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते ।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥ ३० ॥
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह ।
किन्नरा राक्षसैश्चापि समीयुर्मानुषैः सह ॥ ३१ ॥
पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः ।
राक्षसानां विनाशाय कपोता विचरन्ति च ॥ ३२ ॥
वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः ।
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ॥ ३३ ॥
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च ।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥ ३४ ॥
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ।
एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ ३५ ॥
[* अधिकपाठः –
विष्णुं मन्यामहे देवं मानुषं देहमास्थितम् ।
न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥
येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ।
कुरुष्व नरराजेन सन्धिं रामेण रावण ॥
*]
ज्ञात्वा प्रधार्य कार्याणि क्रियतामायतिक्षमम् ॥ ३६ ॥
इदं वचस्तत्र निगद्य माल्यवान्
परीक्ष्य रक्षोधिपतेर्मनः पुनः ।
अनुत्तमेषूत्तमपौरुषो बली
बभूव तूष्णीं समवेक्ष्य रावणम् ॥ ३८ ॥
[* अधिकश्लोकं –
स तद्वचो माल्यवता प्रभाषितं
दशाननो न प्रतिशुश्रुवे तदा ।
भृशं जगर्हे च सुदुष्टमानसो
मुमूर्षुरत्युच्चवचांस्युदीरयन् ॥
*]
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.